________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / विबुद्धो रिपुकम्पनः महिता लोकेन / अभिहितमनेन / प्रियतमे कुतस्ते भयं / कथितमनया लोलाक्षचेष्टितं। ततोऽधिष्ठितः सोऽपि देषगजन्द्रेण। मस्पर्धे मतिरस्कारमाइतोऽनेन रणाय लोलाक्षः / प्रक्षुभिताः सुभटाः / समुत्थितानि शेषवनापानकानि / समुलसितः कलकलः / सन्नद्धं चतुरङ्गबलं / प्रादुर्भुतं गुन्दलं / ततश्चाविज्ञातव्यतिकरतया मदिरामदपरवशतया च परस्परमेव कातरनराः कातरनरैः खरैः खरा वेगमरगमरास्तुरगैस्तुरगा वरकरभैर्वरकरभा रथवरै रथवराः कुञ्जनः कुचरास्तदपरैर्वरकुचरैवरकुञ्जरा नरवरप्रेरितपूर्णयितुमारधाः / संजातमकाण्डे बहुजनमर्दनं // इतश्च तथा रिपुकम्पनेनाहतो लोलाक्षश्चलितस्तदभिमुखं देषगजेन्द्राधिष्ठितः / मदिरामदान्धतया लगौ तौ करवालयुद्धेन / ततो गाढामर्षानिपातितोऽरिपुकम्पनेन लोलाचः। संजातो महाविप्लवः / तमवलोक्य प्रविष्टौ नगरे विमर्शप्रकर्षो / स्थिती निराबाधस्थाने / विमर्शनातं / वत्स दृष्टं देषगजेन्द्रमाहात्म्यं / म प्राह / सुष्टु दृष्टं माम तावतां विलामानामौदृशं पर्यवसानं / विमर्श नातं / भद्र मद्यपायिनामेवंविधमेव पर्यवमानं भवति / मदिरामत्ता हि प्राणिनः कुर्वन्यगम्यगमनानि न लक्षयन्ति पुरःस्थितं मारयन्ति प्रियबान्धवान् जनयन्धकाण्डविवरं समाचरन्ति समस्तपातकानि भवन्ति सर्वजगत्मन्तापकाः निपात्यन्ते निष्प्रयोजनं मृत्वा च गच्छन्ति दुर्गतौ / किमचाश्चर्यमिति / किं च / मद्ये च पारदार्य च ये रताः क्षुद्रजन्तवः / For Private and Personal Use Only