________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 602 उपमितिभवप्रपञ्चा कथा / भूरिमद्यपानेन मदनिर्भर निश्चेष्टौभृतमापानकं / प्रस्तुठिताः सर्वे लोकाः / प्रवृत्ताश्छर्दयः / संजातमशुचिकर्दमपिच्छिल / निपतिता वायसाः / समागताः मारमेयाः / अवलोढानि जनवदनानि / प्रसुप्तो रिपुकम्पनः / जागर्ति रतिललिता // अचान्तरे वशीकृतो महामोहेन क्रोडौकतो रागकेसरिणा प्रेरितो विषयाभिलाषण अभिभूतो रतिमामर्थ्येन निर्भित्रो हृदयमर्मणि शरनिकरप्रहारैर्मकरध्वजेन म्रियमाण वात्मानमचेतयमानः प्रचलितो लोलाक्षो रतिललिताग्रहणाथै वेगेन / प्राप्तस्तत्समौपं। प्रसारितो बाहुदण्डौ / ततः किमेतदिति चिन्तितं रतिललितया। सचितं तदाकूतमनया / समुत्पन्नं साध्वसं / संजातं भयं / विगलितो मदिरामदः / पलायितं प्रवृत्ता ग्टहीता लोलाक्षेण / विमोचितोऽनयात्मा / धावन्तौ पुनर्ट हौता लोलाक्षेण / ततः पुनर्विमोच्यात्मानं प्रविष्टा तत्र चण्डिकायतने। स्थिता चण्डिकाप्रतिमायाः पृष्ठतो भयेन कम्पमाना // अत्रान्तरे द्वेषगजेन्द्रस्य संपन्नो राजादेशः / श्राविर्भूतोऽसौ / दृष्टः प्रकर्षण / म प्राह / माम स एष द्वेषगजेन्द्रः महितो निजडिम्भरूपैः। विमर्शनोकं / वत्म संपन्नोऽस्य नियोगावसरः / केवलमस्य विलमितमधना विलोकयत वत्मः / प्रकर्षणोक्त / एवं करोमि॥ ततः प्रतिपन्न देषगजेन्द्रेण राजशासन। अधिष्ठितो लोलाक्षः। चिन्तितमनेन / मारयाम्येनां पापां रतिललिता या मां विहायेत्य नष्टेति / ग्रहोतोऽनेन खड्गः / प्रविष्टश्चण्डिकायतने / मदिरामदान्धतया तबुद्ध्या विदारितानेन चण्डिका / नष्टा रतिललिता / बहिनिर्गत्य तयार्यपुत्रार्यपुत्र त्रायख चायखेति कृतो हाहारवः / For Private and Personal Use Only