SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 872 उपमितिभवप्रपचा कथा। भूरिप्रकारेण वृत्तान्तजातेन तद्रत्वपूर्ण महादीपमुच्चैः प्रयातानि तानि प्रमोदेन पूर्णमिति // ततः समुत्तीर्ण वाणिजकाः / ग्टहीतं दर्शनीयं / दृष्टो नरपतिः / विहितोऽनेन प्रसादः / वर्तितं शुल्कं / परिकलितं भाण्डं / दत्ता हस्तसंज्ञाः। विक्रीतं खरुच्चा। ग्टहीतं प्रतिभाण्डं / वितीर्ण दानं / प्रतिनिवृत्ताः स्वकूलाभिमुखं शेषवाणिजकाः / धृतोऽहं सागरेण / उनं चानेन / वयस्य / निम्बपत्रादिभिर्यच वन्यन्ते रत्नसञ्चयाः / विमुच्य तदिदं दीपं किं झटित्येव गम्यते // ततः स्थितोऽहं विधायापणं / प्रारब्धं रत्नग्रहणवाणिज्यं / / अन्यदा समागतेका वृद्धनारी / तयाभिहितं / वत्स अस्ति भवता मह किंचिदकव्यं / मयोक्त / वदत भवती। तयोक। अस्त्यानन्दपुरे केसरी नाम राजा। तस्य द्वे भार्य जयसुन्दरी कमलसुन्दरौ च / स च राज्यसुखलोलतया जाताजातान्निजसुतान्मारयति / अतः मा कमलसुन्दरौ संजातगर्भापत्यस्नेहमोहिता मां सहचरौं ग्रहोत्या रात्रौ पलायिता। पतिता महाटव्यां / अनुभूतो भूरिक्तशः। संजातो रात्रिशेषः / अत्रान्तरे तस्या मे खामिन्या विजृम्भितं नितम्बविम्ब स्फुरितं मवेदनं नाभिमण्डलं प्रवृत्तानि दारुणानि उदरशूलानि स्तम्भितमूरुयुगलं विदलन्ति चाङ्गानि ममुद्देलितं हृदयेन मुकुलिते लोचने प्रवृत्ता जृम्भिका / ततोऽभिहितमनया / सखि वसुमति न शक्नोम्यहं गन्तुं / महतो मे शरीरबाधा वर्तते / मया चिन्तितं / हा हन्त किमेतत् / ततो For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy