SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 871 चर्यन्ते निर्यामकाः गण्यते गमनदिनं विचार्यते लमशद्धिः निरूप्यन्ते निमित्तानि क्रियन्तेऽवश्रुतयः संस्मर्यन्तेऽभीष्टदेवताः पूज्यते समुद्र देवः मनीक्रियन्ते मितपटाः ऊर्धी क्रियन्ते कूपकस्तम्भाः बध्यन्ते काष्ठमञ्चयाः भियन्ते जलभाजनानि श्रारोप्यते भाण्डोपस्करः विधीयते रणसामयौ मौल्यन्ते तद्दीपगामिनः सांयात्रिका इति / संपूर्ण सर्वसामय्या सममन्यैर्महाधनैः / स्थितोऽहं गमने सज्जो हित्वा भायीं पितुर्महे // अथ प्राप्ते शुभे काले कृतनिःशेषमङ्गलः / यानपात्रे समारूढो मित्राभ्यां परिवारितः // चलत्सु च यानपाचेषु प्रहतानि बराणि प्रवादिताः शङ्खाः प्रगीतानि मङ्गलानि पठन्ति पटुबटवः अाशिषं ददतो निवर्तन्ते गुरुजनाः दैन्यमवलम्बन्ते मुक्तप्रियतमाः इष्टविषणो मित्रलोकः मनोरथप्रवणाः सचना इति / एवं च / पूरयित्वार्थिसखातं कृत्वा कालमहोत्सवम् / अनुकूले लमहाते सर्वेऽपि चलिता वयम् // ततः पूरिताः सितपटाः / उत्क्षिप्ता नङ्गराः। चलिताशावल्पकाः / दत्तावधानाः कर्णधाराः / पतितानि वर्तन्यां यानपात्राणि। प्रवृत्ती मनोभिमतः पवनः / ततश्च प्रबलपवनवेगकल्लोलमत्स्यौघपुच्छच्छटाघातमंजातखादारवित्रस्तयादःसमूहेन संबन्धफेनेन निर्नटकूर्मेण मार्गेण गन्तुं प्रवृत्तानि तानि प्रभूतानि बोहित्थरूपाणि विस्तीर्णदीर्घ च तीणे समुद्रेत्र For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy