________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ षष्ठः प्रस्तावः / अथास्ति सततानन्दमन्दिरं दोषदूरगम् / श्रानन्दनामकं लोके बहिरङ्ग महापुरम् // विलासोल्लासलावण्यललिता लोचनैनरा / मोन्मेधैर्यत्र भाव्यन्ते देवेभ्योऽभिन्नमूर्तयः // प्राकृष्टदृष्टयो नृणां नार्यो निष्यन्दलोचनाः / यत्र संपादयनएचरमराकारधारिताम् // चित्रांशरत्नसञ्चारतारं यत्र विभाव्यते / पाखण्डलधनुर्दण्डखण्डमण्डितमम्बरम् // परेभकुम्भनिर्भदवर्धितोत्माइसाहसः / तत्राकान्तमहीपौठः केसरी नाम भूपतिः / अनेकसुन्दरौवन्दमध्ये लब्धपताकिका / देवी कमलपत्रादौ तस्यास्ति जयसुन्दरौ // अथास्ति नगरे तत्र वल्लभस्तस्य भूपतेः / निःशेषनगराधारो वाणिजो हरिशेखरः // येन मेधायितं दानादर्थिसस्येषु सर्वदा / मुहत्कमलखण्डेषु सततं भास्करायितम् // तस्यास्ति इदयस्येष्टा लावण्यामृतकुण्डिका / साध्वी बन्धुमती नाम भार्यकुलसम्भवा // या रूपमिव रूपस्य प्रत्यादेश व श्रियः / For Private and Personal Use Only