________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 उपमितिभवप्रपचा कथा। त्वयार्यपुत्र गन्तव्यमधुना लोकविश्रुते / आनन्दनगरे तत्र वस्तव्यं चारुलीलया // मयो / यद्देवि रोचते तुभ्यं कर्तव्यं तन्मया ध्रुवम् / ततः पुण्योदयो भूयः स तया मे निदर्शितः // तथान्यः सागरो नाम महायो मे निरूपितः / प्रस्तावोऽस्येति विज्ञाय भवितव्यतया तया // उक्त च / मूढतानन्दनो नाम रागकेसरिणोऽङ्गजः / मयायं विहिताऽद्यैव महायस्ते मनोहरः // ततोऽहं महितस्ताभ्यां महायाभ्यां प्रवर्तितः / अानन्दनगरे गन्तुं गुडिकादानयोगतः // इति / ये घाणमायानृतचौर्यरका भवन्ति पापिष्ठतया मनुष्याः / इहैव जन्मन्यतुलानि तेषां भवन्ति दुःखानि विडम्बनाश्च // तथा परत्रापि च तेषु रकाः पतन्ति संसारमहासमुद्रे / अनन्तदुःखौघचितेऽतिरौद्र तेषां ततश्चोत्तरणं कुतस्त्यम् // जैनेन्द्रादेशता वः कथितमिदमहो लेशतः किंचिदत्र प्रस्तावे भावमारं कृतविमलधियो गाढमध्यस्थचित्ताः / एतद्विज्ञाय भो भो मनुजगतिगता ज्ञाततत्त्वा मनुष्याः स्तेयं मायां च हित्वा विरहयत ततो घ्राणलाम्पत्यमुच्चैः / / इत्यपमितिभवप्रपञ्चायां कथायां मायास्तेयघ्राणेन्द्रियविपाकवर्णनः पञ्चमः प्रस्तावः समाप्तः॥ For Private and Personal Use Only