________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। एकोऽप्यनन्तरूपोऽयं भवितव्यतया तया / अन्यच्च / नगराण्यन्तरङ्गाणि मित्राणि खजनास्तथा / येऽमुना गदितास्तेऽपि न मया परिनिश्चिताः / तदिदं स्वप्नसङ्काशमिन्द्रजालाधिकं गुणैः / अस्य मंसारिजीवस्य चरितं प्रतिभाति मे // यं च मुखरागेण बुध्यमानेव लक्ष्यते / साध्वी प्रज्ञाविशालेदं निःशेषं चरितं हृदि / इदं मे लेशतः मर्वं निर्दिष्टमनया पुरा / अस्य संसारिजीवस्य वृत्तं प्रज्ञा विशालया / केवलं विस्मृतप्रायं मम तदर्ततेऽधुना / प्रकाण्डे पृच्छतश्चेत्यं संजायेत ममाज्ञता / तत्तावत्कथयत्येष तस्करो यद्विवक्षितम् / अहं तु प्रश्नयिष्यामि पश्चादनां रहस्थिताम् / इदं निश्चित्य हृदये स भव्यपुरुषस्तदा / वचः संसारिजीवस्य दूष्णीमाकर्णयन् स्थितः / / मुखं संसारिजीवस्य पश्यन्तौ विस्मितेक्षणा / स्थिताग्टहौतमङ्कता सम्यगज्ञातभावना // मदागमस्तु भगवानिःशेषं तस्य चेष्टितम् / वेत्ति संसारिजीवस्य ततो मौनेन संस्थितः // ममारिजौवेनोक्र / अथाहमन्यदा भद्र तुष्टया निजभार्यया / संजानकृपया प्रोतः केनचिच्छुभकर्मणा // 108 For Private and Personal Use Only