________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 856 उपमितिभवप्रपञ्चा कथा / तथाहि / पूर्व तावदनेनोनं यथासोत्किल सर्वदा / पुरेऽसंव्यवहाराख्ये वास्तव्योऽहं कुटुम्बिकः // कालं तत्र स्थितोऽनन्तं भवितव्यतया मह / खकर्मपरिणामाख्यराजादेशेन निर्गतः // एकाक्षपशुसंस्थाने तथान्येषु च भूरिषु / तथाविधेषु स्थानेषु भ्रान्तो दुःखैः प्रपूरितः // अन्यच्चेदमनेनोक्तमनन्तं कालमेकशः / सर्वेषु तेषु स्थानेषु नाटितः किल भार्यया // तथाहि / नन्दिवर्धनरूपेण रिपुदारणलौलया / वामदेवविधानेन किलाहं भ्रमितस्तया / अतीतोऽनन्तकालश्च सर्वेषामन्तरान्तरा / कृतान्यनन्तरूपाणि तथान्यानि स्वभार्यया // गुडिकादानयोगेन किलेदं विहितं तया / तदस्य चरितं सर्व विरुद्धमिव भासते // तथाहि / पुरुषश्चेत्कथं तस्य स्थितिः कालमनन्तकम् / किं वाजरामरो हन्त भविष्यत्येष तस्करः // तावत्कालस्थितिहन्त का चेयं भवितव्यता / कथं वा निजभार्यापि प्रतिकूलत्वमागता // का चेयं गुडिका नाम महावीर्या यया कृतः / For Private and Personal Use Only