SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 8 ययोरामनचित्तोऽयं वराको भूरि नाटितः // तथाहि / वञ्चितस्तादृशोऽनेन महात्मा विमलः पुरा / तन्माहात्म्येन लोके च गतोऽयं रणतुल्यताम् // सरलो वत्सलः स्निग्धो मुषित्वा च प्रतारितः / प्राप्तोऽयं तत्प्रसादेन तत्र घोरविडम्बनम् // तथा / यदयं तादृशेनापि महाभागेन सूरिणा / बुधेन बोधितो नासौत्मा माया तत्र कारणम् // ब्रुवाणस्थापि सद्भूतं न प्रत्येति स्म यज्जनः / धिक्वरोति च तत्रापि सैव मायापराध्यति // यदन्यजनितेनापि दोषेणायं विबाधितः / संसारिजीवस्तत्रापि स्तेयो माया च कारणम् // एवं चानन्तदोषाणामाकरस्ते दुरात्मिके / तथापि लोकः पापिष्ठः स्तेयमाये न मुञ्चति // अन्यच्च / तथा संसारिजौवे भोः कथयत्यात्मचेष्टितम् / स भव्यपुरुषस्तत्र चिन्तयामास विस्मितः // अपूर्वमिदमस्याहो तस्करस्थातिजल्पितम् / अतिचित्रमसंभाव्यं लोकमार्गातिदूरगम् // अप्रसिद्धं ममात्यन्तं हृदयाक्षेपकारि च / नदस्य परमार्थी यः स मया नावधारितः // For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy