________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 854 उपमितिभवप्रपञ्चा कथा / संभाव्यं नापरस्येति ग्राहितस्तेन भूभुजा // अनेकयातनाभिश्च नानारूपैविडम्बनैः / ततोऽहं गाढरुष्टेन तेन भद्र कदर्थितः // न स्थितः सरलस्यापि वचनेन नराधिपः / उल्लम्बितो विशालाचि ततोऽहं विरटबलम् // अत्रान्तरे च मा जीर्ण गुडिका मम पूर्विका / भवितव्यतया दत्ता ततोऽन्या गुडिका मम // तस्याः प्रभावतो भने तीव्रदुःखौघसम्पदि / गतः पापिष्ठवासायां नगर्यामन्यपाटके / तत्रानुभूय दुःखानि तौवानन्तानि विकलः / असंख्यकालं भूयोऽपि गुडिकादानयोगतः // पञ्चाक्षपशुसंस्थाने समागत्य पुरे ततः / भ्रान्तोऽहं बहुशोऽन्येषु नगरेषु पुनः पुनः तन्नास्ति नगरं भद्र ग्रामो वा वरलोचने / मुलासंव्यवहाराख्यं बहुशो यन्त्र वौक्षितम् // तथापि पशुसंस्थाने योषिदाकारधारकः / बहुशो बहुलिकादोषादिशेषेण विडम्बितः // मोढानि नानादुःखानि स्थाने स्थाने मया तदा / ताभ्यां पापवयस्याभ्यां प्रेरितेन वरानने // एवं वदति संसारिजौवे प्रज्ञाविशालया। ददं विचिन्तितं गाढं संवेगापबचित्तया // अहो दुरन्तः स्तेयोऽसौ माया चात्यन्तदारुणा / For Private and Personal Use Only