________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 852 उपमितिभवप्रपञ्चा कथा / स्थितः शय्यायां विपरिवर्तमानः / रात्रिशेषे च चिन्तितं मया / अयि यदि परमेतस्यां तातस्पर्शपूतायां श्रापणशय्यायां निद्रासुखं संपद्यते नान्यत्रेति संचिन्त्य समागतोऽहमापणे / दृष्टमिदमौदृशं चौरविलसितं / ततः कृतो हाहारव इति / दाण्डपाशिकैश्चिन्तितं / निश्चितमेतत्तस्करोऽयं दुरात्मा वामदेवः / अहो अस्थालजालचात्य अहो वाचालता अहो वञ्चकत्वं अहो कृतघ्नता अहो विश्रम्भघातित्वमहो पापिष्ठतेति / ततस्तैरुक्तं / श्रेष्ठिबिराकुलो भव / लब्ध एवास्तेऽस्माभिश्चौरः / ततः माकूतमवलोकितं मर्मदभिमुखं। ज्ञातोऽहमेतैरिति संजातं मे भयं। ततः पुनः सलोन ग्रहीय्याम इत्यालोच्य गतास्तावहाण्डपाशिकाः। दत्तो ममावरक्षकः। अनेककुविकल्पाकुलस्य मे खचितं तद्दिनं / सन्ध्यायां ग्टहीत्वा तदन्तईनं पलायमानोऽहं ग्रहोतो दाण्डपाशिकः / जातः कोलाहलः / मिलितं पुनर्नगरं। कथितो दाण्डपाशिकः समस्तोऽपि लोकाय मदीयव्यतिकरः / संजातो मचरितेन विस्मयः / नौतो ऽहं रिपुसूदनराजसमौपे / श्राज्ञापितस्तेन वध्यतया। समागतः सरलः / पतितो नृपचरणयोः / अभिहितमनेन / ममायं पुत्रको देव वामदेवोऽतिवल्लभः / अतो मेऽनुग्रहं कृत्वा मुच्यतामेष बालकः // ग्राह्यतां मम सर्वखं मैष देव निपात्यताम् / अन्यथा जायते देव मरणं मे न संशयः // ततोऽतिमरलं मत्वा सरलं तं नराधिपः / अमुश्चन्मां प्रसादेन तस्यायच्छच्च तद्धनम् // For Private and Personal Use Only