________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्वमा प्रस्तावः / 52 अपुत्रयोः प्रिये पुत्रो वृद्धयोः परिपालकः / दत्तः मंचिन्ध देवेन वामदेवोऽयमावयोः // तदाकर्ण्य हृष्टा बन्धुमतौ / निक्षिप्तं सरलेन मय्येव ग्रहं / दर्शितमापणनिहितं रत्नादिकमन्तर्धनं / स च तस्यैव मूईया मया महितस्तत्रैवापणे खपिति स्म / अन्यदा सन्ध्यायामावयोमहे तिटतोः समागतः मरलस्य बन्धुलनाम्नः प्रियमित्रस्य ग्टहादाहायकः / यथा मम पुत्रस्य षष्ठीजागरे भवतागत्येह वस्तव्यमिति / ततोऽभिहितोऽहं सरलेन / पुत्र वामदेव गन्तव्यं मया बन्धुलग्टहे / वं पुनरापणे गत्वा वसेति / मयोक / प्रल मे तातरहितस्थापणे गमनेनाद्य तावदम्बाया एव पादमूले वल्या मि / ततोऽहो खेहमारोऽयमिति चिन्तयन्नेवं भवविति वदन गतः सरलः / स्थितोऽहं रहे / रात्रौ विजृम्भितः स्तेयः / चिन्तितं मया / हरामि तदन्तर्धनं / ततोऽर्धराचे गतस्तमापणं / उहाटयतय समागता दाण्डपाशिकाः / दृष्टोऽहमेतैः प्रत्यभिज्ञातश्च / ततः पश्यामस्तावत्किमेषोऽर्धराचे करोत्यापणमुद्दाव्येति संचिन्य स्थितास्वष्णौँभावेन प्रच्छन्नाः / उत्खातं मया तदन्तर्धनं निखातं तस्यैवापणस्य पश्चाभागे। विभातपायायां च रजन्यां कृतो हाहारवः / मिलितो नगरलोकः / संप्राप्तः सरलः / प्रकटौभूता दाण्डपाशिकाः / प्रवृत्तः कलकलः / सरलेनोक्तं / वत्म वामदेव किमेतत् / मयोतं / हा तात मुषिता मुषिताः स्म इति / दर्शितश्चोखाटितापणो निधानस्थानं च / सरलेनोक्तं / पुत्र त्वया कथमिदं ज्ञातं / मयोक्त / अस्ति तावनिर्गत तातः / ततो मे तातविरहवेदनया नागता निद्रा / For Private and Personal Use Only