________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir C8G उपमितिभवप्रपञ्चा कथा / श्रुत्वा तत्तादृशं वाक्यं महामोहतमोपहम् / तथापि च न बुद्धोऽस्मि तत्राकर्णय कारणम् // यासौ बहुलिका पूर्व योगिनी भगिनी मम / शरौरेऽनुप्रविष्टामौत्सा मे तत्र विजम्भिता // यतोऽग्टहीतसङ्केते तदशेन दुरात्मना / म तादृशो महाभागो वञ्चकः परिकल्पितः // चिन्तितं च मया हन्त मुनिवेषविडम्बकः / मिद्धेन्द्रजालचातुर्यः कश्चिदेष समागतः // अहो भाव्यमहो जालमहो वाचाचतातुला / अहो मूढा नरेन्द्राद्या येऽमुनापि प्रतारिताः // तथाहि / अङ्गे बहुलिका येषां विवर्तत दुरात्मनाम् / ते हि सर्व मठप्रायं मन्यन्ते भुवनत्रयम् // तदेवं तं बुधाचार्य तदालोकविकल्पनैः / विकल्पयन्वहं भद्र न प्रबुद्धो दुरात्मकः // प्रव्रज्यावसरे तेषां राजादौनां मया पुनः / इदं विचिन्तितं भट्रे खचित्ते पापकर्मणा // श्रये / प्रव्रज्यां ग्राहयेदेष विमलो मां बलादपि / पादितो वञ्चयित्वेमं ततो नश्यामि सत्वरम् // बड़ा मुष्टिदयं गाढं ततोऽहं तारलोचने / तथा नष्टो यथा नैव गन्धमप्येष बुध्यते // For Private and Personal Use Only