________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 43 मानुषाणि प्रयुक्तानि पञ्चात्मीयानि कुत्रचित् // अभिभूतानि तानौह सन्तोषेण पुरा किल / चारित्रधर्मराजस्य तन्त्रपालेन लीलया // तनिमित्तः समस्तोऽयं जातोऽमौषां परस्परम् / कलहो वत्म साटोपमन्तरङ्गमहौभुजाम् // मयाभिहितं / अम्बिके किन्नामानि तानि मानुषाणि कथं वा पञ्चैतानि जगत्माधयन्ति / मार्गानुसारितयोक्तं / वत्म विचार स्पर्शरसनाघ्राणदृष्टिश्रोत्राणि तान्यभिधीयन्ते / तानि च स्पर्श रसे च गन्धे च रूपे शब्दे च देहिनाम् / आक्षेपं मनसः कृत्वा साधयन्ति जगत्त्रयम् // एकैकं प्रभवत्येषां वशौकत् जगत्त्रयम् / यत्पुनर्वत्म पञ्चापि तत्र किं चित्रमुच्यताम् // ततो मयोक्तं संपूर्ण देशदर्शनकौतुकं / अधुना तातपादानां पार्श्वे यास्यामि सत्वरम् // तयोक्तं गम्यतां वत्म निरूप्य जनचेष्टितम् / अहमण्यागमिष्यामि तत्रैव तव सन्निधौ / अथाहमागतस्वर्ण निश्चित्येदं प्रयोजनम् / ततस्तात वयस्योऽयं घ्राणनामा न सुन्दरः // वञ्चको मुग्धबुद्धीनां पर्यटत्येष देहिनाम् / मानुषाणां वतीयोऽयं रागकेसरिमन्त्रिणाम् // यावनिवेदयत्येवं बुधाय निजदारकः / For Private and Personal Use Only