________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 844 उपमितिभवप्रपञ्चा कथा / मार्गानुमारिता तावदायाता भो नरेश्वर // समर्थितं तया सर्व विचारकथितं वचः / त्यजामि घ्राणमित्येवं बुधस्यापि हदि स्थितम् // दूतश्च / भुजङ्गतासमायुको घ्राणलालनलालमः / मन्दः सुगन्धिगन्धानां मदान्वेषणतत्परः // तत्रैव नगरे भूप लोलावत्याः कथंचन / म देव राजभाया भगिन्या भवने गतः // ततश्च / मपत्नौपुत्रघातार्थं तस्मिन्नेव क्षणे तया / आत्तो डोम्बौकराइन्वसंयोगो मारणात्मकः // ततश्च / तां गन्धपुटिकां द्वारे मुक्का लोलावतौ ग्रहे / प्रविष्टा स च संप्राप्तो मन्दः सा तेन वौचिता // ततो भुजङ्गतादेशाच्छोटयित्वा निरूपिता / दत्ता घ्राणाय ते गन्धास्ततस्तेन दुरात्मना / ततश्चाघूर्णिते घ्राणे तैर्गन्धेस्तस्य मूर्छया / स्नेहमोहितचित्तत्वात्म मन्दः प्रलयं गतः // ततो विनष्टमालोक्य प्राणलालनलम्पटम् / तं मन्दं घाणसम्पर्कादिरको नितरां बुधः // ततश्च मा बुधेनेदं पृष्टा मार्गानुसारिता / भद्रे कथं ममानेन संसर्गो न भविष्यति // For Private and Personal Use Only