________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 81 अरे रे दुष्ट केनेदं दुरात्मंस्ते निवेदितम् / यथा संसारिजौवो नः स्वामी सम्बन्धिनो वयम् // पातालेऽपि प्रविष्टानां नास्ति मोक्षः कथंचन / युभाकमालजालेन किमनेन नराधमाः // समारिजीवो नः स्वामी ययं सम्बन्धिनः किल / अहो सम्बन्धघटना अहो वाक्यमहो गुणाः // तत्तर्ण गच्छ गच्छति देवतास्मरणोद्यताः / यूयं भवत शान्यर्थमेते वो वयमागताः / एवं च। सहस्ततालमुत्तालाः प्रविहस्य परस्परम् / तथान्ये निष्ठुरैर्वाक्यैः कृत्वा दूतकदर्थनम् // चलितास्तत्क्षणादेव क्रोधान्धास्ते महौभुजः / संनद्धबद्धकवचा महामोहपुरस्मराः // सत्येनापि समागत्य सर्वं तच्चेष्टितं प्रभोः / चारित्रधर्मराजस्य विस्तरेण निवेदितम् // अथाभ्यागतां मत्वा महामोहमहाचमूम् / चारित्रधर्मराजौयं संनद्धमखिलं बलम् // ततः परिसरे रम्चे लगमायोधनं तयोः / चित्तवृत्तिमहाटव्यां सैन्ययोः कृतविस्मयम् // तच कीदृशं / विनमितभटकोटिसवातहे तिप्रभाजालविस्तारसञ्चारनि भिताशषतामिस्रमेकत्र चारित्रधर्मानुसञ्चारिराजेन्द्रवृन्दैरतोऽन्यत्र दुष्टा 106 For Private and Personal Use Only