________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। प्रविष्टः प्रतिपत्त्या च निविष्टः शुभविष्रे // ततः पृष्टतनूदन्तो वाक्यमेवमुदारधीः / स माह माहसाब्योऽपि कोपाग्नेः शान्तिकाम्यया // चित्तवृत्तिमहाटव्या यः प्रभुः परमेश्वरः / लोके संसारिजौवोऽसौ तावदो मूलनायकः // बहिरङ्गान्तरङ्गाणं संसारोदरचारिणाम् / राज्ञां ग्रामपुराणां च स स्वामौ नात्र संशय // एवं च स्थिते यूयं वयं च ये चान्ये केचिदान्तरभूभुजः / ते कर्मपरिणमाद्याः सर्वे तस्यैव किङ्कराः // ततश्चैकमिदं राज्यं सर्वेषामेक एव च / खामी संसारिजीवोऽतः को विरोधः परस्परम् // यतः। शकाः खखामिनो भनाः संहताश्च भवन्ति ते / मृत्या बन्धूपमा नैव खपक्षक्षयकारकाः // तदस्तु सततानन्दमतः प्रभृति सुन्दरम् / युमाभिः सह राजेन्द्र प्रेम नः प्रौतिवर्धनम् // दूदं सत्योदितं सत्यं वाक्यमाकर्ण्य मा सभा / माहामोही महाक्षोभमथ प्राप्ता मदोद्धरा // ततश्च / दष्टोष्ठा रक्रमर्वाङ्गा भूमिताडनतत्पराः / क्रोधान्धबुद्धयः सर्वे समकालं प्रभाषिताः // For Private and Personal Use Only