________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 83. उपमितिभवप्रपञ्चा कथा / पुरुर्वेष्टितो दृष्टो मयैको राजदारकः // ततो मयो / क एष दारको मातः किं वा गाढप्रहारितः / कुत्र वा नौयते लमः के वामी परिचारकाः // मार्गानुमारिता प्राह विद्यतेऽत्र महागिरौ / राजा चारित्रधर्माख्यो यतिधर्मस्तु तत्सुतः // तस्यायं संयमो नाम पुरुषः ख्यातपौरुषः / एकाकी च क्वचिदृष्टो महामोहादिशत्रुभिः // ततो बहुत्वाच्छचूणां प्रहारैर्जर्जरीकृतः / अयं निहितो वत्म रणभूमेः पदातिभिः / अमौ पदातयो वत्स नेष्यन्तीम खमन्दिरे / अस्य चात्र पुरे जैने सर्वे तिष्ठन्ति बान्धवाः // मयोक्तं / अम्बिके / दृष्ट्वेमं यत्करिष्यन्ति शत्रुभिः परिपीडितम् / चारित्रधर्मराजाद्या वृहन्मे तत्र कौतुकम् // श्रतो महाप्रसादेन नौत्वा मां गिरिमस्तके / अधुना दर्शयत्वम्बा खामिनोऽस्य विचेष्टितम् // मार्गानुमारितयोक्तं / वत्मैवं क्रियते / ततस्तदनुमार्गण विवेकगिरिमस्तके / आरूढा मा मया साधं तत्र मार्गानुसारिता // अथ तत्र पुरे जैने राजमण्डलमध्यगः / For Private and Personal Use Only