________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 29 धन्यास्मि कृतकृत्यास्मि यस्था मे दृष्टिगोचरम् / खत एवागतोऽसि त्वं वत्म मद्रनपुञ्जकः // मयोक्कमम्ब यद्येवं ततो मे चारु वेधसा / ददं संपादितं हन्त मौलितोऽहं यदम्बया // अधुना दर्शयत्वम्बा प्रसादेन विशेषतः / ममेदं बत निःशेषं भवचक्र महापुरम् // ततः मा बाढमित्युक्त्वा तात मार्गानुसारिता / समस्तं भवचक्र मे मवृत्तान्तमदर्शयत् // अथैकत्र मया दृष्टं पुरं तत्र महागिरिः / तच्छिखरे रमणीयं च निविष्टमपरं पुरम् // सतो मयो / निवेदयाम्ब किंनाम पुरमेतदवान्तरम् / किनामायं गिरिः किं च शिखरे दृश्यते पुरम् // मार्गानुसारिता प्राह वत्म नो लक्षितं त्वया / सुप्रसिद्धमिदं लोके पुरं मात्त्विकमानसम् // एषोऽपि सुप्रसिद्धोऽत्र विवेकवरपर्वतः / प्ररूढमप्रमत्तत्वमिदं च शिखरं जने // इदं तु भुवनख्यातं वत्स जैनं महापुरम् / तव विज्ञातसारस्य कथं प्रष्टव्यतां गतम् // यावत्मा कथयत्येवं मम मार्गानुमारिता / तावजातो ऽपरस्तत्र वृत्तान्तस्तं निबोध मे // गाढं प्रहारनिर्भिनी नौयमानः सुविकलः / For Private and Personal Use Only