________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / कथंचिल्लोलया गेहाद्देशकालिकया गतः / / बहिरङ्गान्तरङ्गेषु म देशेषु पुनः पुनः / पर्यव्य क्वचिदायातः खगेहे राजदारकः // अथ तत्र समायाते प्रहृष्टौ धिषणाबुधौ / संजातो सहदानन्दः संतुष्टं राजमन्दिरम् // ततश्च वृत्ते महाविमर्दैन समागममहोत्सवे / सा ज्ञाता मैत्रिका तेन घ्राणेन बुधमन्दयोः / / ततो रहसि संस्थाप्य तमात्मपितरं बुधम् / स विचारः प्रणम्येत्थं प्रोवाच कृतकुड्मलः // तात यो युवयोर्जातो प्राणनामा वयस्यकः / मोऽयं न सुन्दरो दुष्टस्तत्राकर्णय कारणम् // अस्ति तावदहं तात देशदर्शनकाम्यया / अपृष्ट्वा तातमम्बां च निर्गतो भवनात्तदा // ततोऽनेकपुरग्रामखेटाकरमनोहरा / विलोकिता मया तात भ्रान्त्वा भान्वा वसुन्धरा // अन्यदा भवचक्रेऽहं संप्राप्तो नगरे परे / राजमार्ग मया दृष्टा तत्रैका वरसुन्दरौ / मा मां वौच्य विशालाक्षी परितोषमुपागता / रमान्तरं भजन्तौ च कीदृशौ प्रविलोकिता // सिक्केवामृतसेकेन कल्पपादपमञ्जरौ / घष्टा नौरदनादेन नृत्यन्तीव मयूरिका // For Private and Personal Use Only