________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। अगे सहचरस्येव मिलिता चक्रवाकिका / अम्भोदबन्धनेनेव विमुका चन्द्रलेखिका // राज्ये कृताभिषेकेव क्षिप्तेव सुखसागरे / मया मा लक्षिता साध्वी प्रौतिविस्फारितेक्षणा // ततस्तां वीक्ष्य संपन्नो ममापि प्रमदस्तदा / चित्तं ह्याझैभवेदृष्टे सजने स्नेहनिर्भरे // ततः कृतप्रणामोऽहं प्रोक्तो दत्ताशिषा तया / बेहि वत्स कुतस्योऽसि त्वं मे हृदयनन्दनः // मयोक्रमम्ब जातोऽहं धिषणाया धरातले / पुत्रोऽहं बुधराजस्य देशकालिकया गतः // एतच्चाकर्ण्य मा नारी विलसन्नयनोदका / स्नेहेन मां परिष्वज्य चुम्बित्वा मस्तके मुहुः / / ततः प्राह महाभाग चारु चारु कृतं त्वया / [त्वमादावत्र मे वत्स विदितश्चित्तलोचनैः // जातिस्मरे जनस्यैते लोचने हृदयं च भोः / यतोऽमनि विजानन्ति दृष्टमात्र प्रिया प्रियम् // ] वत्म त्वं नैव जानौषे मां प्रायेण विशेषतः / लघिष्ठोऽसि मया वत्म विमुको बालकस्तदा / अहं हि मातस्ते वत्स धिषणाया वयस्यिका / वल्लभा बुधराजस्य नाम्ना मार्गानुमारिता // शरीरं जीवितं प्राणः सर्वस्वं मम मानधा / तव माता महाभाग पिता ते जौविताधिकः // For Private and Personal Use Only