________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 824 उपमितिभवप्रपञ्चा कथा / भुजङ्गताह सगन्धलुब्धबुद्धिरयं सदा / अतः सुगन्धिभिव्यैः क्रियतामस्य लालनम् // चन्दनागरुकर्पूरकुरङ्गमदमिश्रितम् / कुङ्कुमक्षोदगन्धाढ्यं रोचतेऽस्मै विलेपनम् // एलालवङ्गकर्पूरसज्जातिफलसुन्दरम् / तथा सुगन्धिताम्बूलं खदतेऽस्मै मनोरमम् // मधुपा विविधा गन्धा वर्तिकाः पुष्यजातयः / यत्किंचित्मौरभोपेतं तदेवास्थातिवल्लभम् // दुर्गन्धिवस्तुनामापि नैवास्य प्रतिभासते / तस्मात्सुदूरतस्याज्यं तदस्य सुखमिच्छता // तदेवं क्रियतां तावलालनं मित्रपालनम् / एतद्धि भवतो?ःखवारणं सुखकारणम् // यदेवं लालितेनेह घ्राणेन भवतोः सुखम् / संभविष्यति तद्देव को हि वर्णयितुं क्षमः // मन्देनोक्तं विशालाक्षि सुन्दरं गदितं त्वया / सर्व विधीयते सुभ्र तिष्ठ भने निराकुला // एवं च वदतो मन्दस्य पादयोः पतिता भूयो हर्षविस्फारितेक्षणा / महाप्रमाद इत्येवं वदन्तौ सा भुजङ्गता // बुधस्तु मौनमालम्ब्य शून्यारण्ये मुनिर्यथा / अवस्थितो यतस्तेन ठोऽयं लक्षितस्तया // ततो न किंचिदुक्कोऽसौ काकली विहिता परम् / For Private and Personal Use Only