________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। नैवेह युज्यते कत तद्धि लाघवकारणम् / ममात्मचरिते तच कथ्यमाने परिस्फुटम् / यतः संपद्यते तस्मान युक्तं तस्य कीर्तनम् // ततो धवलराजेन प्रणम्य चरणद्वयम् / म पृष्टः कौतुकावेशानिर्बन्धेन पुनः पुनः / अथ विज्ञाय निर्बन्ध तादृशं तस्य भूपतेः / कुलहलं जनानां च ततः सूरिरभाषत // यद्यस्ति ते महाराज महदत्र कुबहलम् / ततो निवेद्यते तुभ्यं समाकर्णय साम्प्रतम् // अस्ति लोके सुविख्यातं विस्तीर्णमतिसुन्दरम् / अनेकाद्भुतवृत्तान्तं पुरं नाम धरातलम् // तत्र प्रसिद्धमाहात्म्यो जगदाह्लादकारकः / राजा शुभविपाकोऽस्ति प्रतापाक्रान्तभृतलः // तस्यातिवल्लभा साध्वी ममस्ताङ्गमनोहरा। विद्यते विदिता लोके सुन्दरौ निजसाधुता // अन्यदा कालपर्यायादासाद्य निजमाधुताम् / समुत्पनो बुधो नाम तत्सुतो लोकविश्रुतः / / भाकरो गुणरत्नानां कलाकौशलमन्दिरम् / स वर्धमानः संजातो रूपेण मकरध्वजः // भ्राता शुभविपाकस्य जगत्तापकरः परः / तथाशभविपाकोऽस्ति भीषणो जनमेजयः // तस्य विख्यातमाहात्म्या लोकसन्तापकारिणी / For Private and Personal Use Only