________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः देवी परिणतिर्नाम विद्यते भौमविग्रहा / अथ ताभ्यां समुत्पनो दारुणाकारधारकः / विषारोपमः क्रूरो मन्दो नाम सुताधमः // श्रावासो दोषकोटौनां गुणगन्धविवर्जितः / संपन्नो वर्धमानोऽसौ तथापि मदविकलः // पिटव्यपुत्रभावेन तयोश्च बुधमन्दयोः / यदृच्छया वा संपन्ना भाचोमैत्री मनोहरा / सहितावेव तौ नित्यं नगरे काननेषु च / ततो विचरतः खेच्छाक्रौडारमपरायणौ // अथास्ति धिषणा नाम पुरे विमलमानसे / भाभिप्रायराजस्य दुहिता चारुदर्शना // मा तेन यौवनस्थेन बुधेन वरलोचना / स्टहे स्वयंवरायाता परिणीता कृतोत्मवा / / तस्याश्च कालपर्यायानिःशेषगुणमन्दिरम् / मनोरथशतैर्जातो विचारो नाम पुत्रकः / अथान्यदा निजे क्षेचे कौडतोर्बुधमन्दयोः / यस्तदानौं समापनो वृत्तान्तस्तं निबोधत // अस्य क्षेत्रस्य पर्यन्ने दृष्टस्ताभ्यां मनोरमः / ललाटपट्टसनामा विशालो वरपर्वतः / / तस्योपरिष्टादुत्तुङ्गे शिखरे सुमनोहरा / निलोनालिकुलच्छाया कवर्याख्या वनावलौ / ललाटपट्टनामानं पर्वतं तं निरोचितम् / For Private and Personal Use Only