________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 27 बुधसूरिराह / चारु चारूदितं भद्राः सुन्दरा भवतां मतिः / विज्ञातं ननु यमाभिः सर्व मामकभाषितम् // बुद्धो मदीयवाक्यार्थः सभावार्थो नरोत्तमाः / साम्प्रतं हि महाराज सफलो मे परिश्रमः // दयानेव ममादेशो भवद्भिः क्रियतामिह / यन्मया विहितं भूप तद्भवद्भिर्विधीयताम् // नृपतिरुवाच / भदन्त किं भवद्भिर्विहितं / बुधसूरिराह पर्यालोच्य मयासारं संसारं चारकोपमम् / दौक्षा भागवतो भूप रहौता तनिवर्हिणौ // युश्माकमपि चेज्जातो मदीयवचनेन भोः / अनन्तदुःखविस्तारे निर्वेदो भवचारके // ततो ग्टहीत तां दीक्षां संसारोच्छेदकारिणीम् / हे लोका मा विलम्बध्वं धर्मस्य त्वरिता गतिः // नृपतिरुवाच / यदादिष्टं भदन्तेन स्थितं तन्मम मानसे / किंचित्तु भवता तावत्कथ्यतां मे कुहल्लम् // एते प्रबोधिता नाथ यत्नेन भवता वयम् / भवांस्तु बोधितः केन कथं वा कुत्र वा पुरे // किं वा जातः स्वयंबुद्धो भदन्त परमेश्वरः / मवें निवेद्यतां नाथ ममेदं हितकाम्यया // सूरिराह महाराज साधनामात्मवर्णनम् / 103 For Private and Personal Use Only