________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 600 उपमितिभवप्रपञ्चा कथा / रभूतं / यत्युनरेते लुभ्यन्ति शब्दादिषु कुर्वन्ति विकारशतानि तदिदं विषयाभिलाषस्य विजम्भितं नियोगादिकं च / यत्पुनरट्टादृहासहसन्ति दर्शयन्ति विब्बोकान् इदं हास्यस्य विलमितं / एवं तत्पनौनामपि यथाहं शेषाणामपि नरपतीनां च डिम्मरूपाणां च नियोगमाहात्म्याभाट्यग्रहणव्यापाराः प्रतिनियता एव द्रष्टव्याः / यत्पुनरमौ जनाः शब्दादिकं भोगजातमुपभुञ्जते महर्षमनुकूलयन्ति कलत्राणि स्तुवन्ति तेषां वत्राणि समाविष्यन्ति गात्राणि सेवन्ते मैथुनानि तत्रैवमादिके कर्मणि नेष मकरध्वजराजोऽन्यस्य नियोगं ददाति किं तर्हि रत्या मह खयमेव कुरुते / यतोऽस्यैव तत्र कर्मणि सामर्थ्य नान्यस्येति / तदेवं वत्म विद्यन्ते तत्र देषगजेन्द्रशोकादयः / केवलं स्वकीयं नियोगावसर प्रतीक्षन्ते / तेन नाविर्भवन्ति // प्रकर्षणोतं / यद्येवं ततः किं शून्योभूतोऽधुना चित्तवृत्तौ स महामोहास्थानमण्डपः / विमर्शनोकं / नैतदेवं / निवेदितमेव तुभ्यं / कामरूपिण: खल्वमौ अन्तरङ्गजनाः ततः समागताः सर्वेऽप्यत्र मकरध्वजराज्य / तथापि तन्महामोहास्थानं तदवस्थमेवास्ते। इदं हि कतिचिद्दिनमावि मुहूर्तसुन्दरं मकरध्वजराज्य / तत्तु महामोहराज्यमाकालप्रतिष्ठमनन्तकल्पविमर्दसुन्दरं श्रतः का तत्र विचलनाशङ्का / अन्यच्च / तत्समस्तभुवनव्यापकं महामोहराज्यमिदं पुनरचैव मानवावासपुरे मकरध्वजराज्य। केवलं चिरन्तनस्थितिपालनव्यसनितया निजपादातैरपि स्वयमेव राज्य ऽभिषिक्तस्य पुरतोऽस्य मकरध्वजस्य महामोहनरेन्द्रोऽयमेवं मृत्यभावमाचरति / तस्मादविचलमेव भद्र तन्महामोहास्थानं For Private and Personal Use Only