________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / भावैश्वर्यपरिभ्रष्टं खकुटुम्बवियो जितम् // लोकभौतं भवग्रामे वीक्ष्य भिवाचरोपमम् / तन्मात्रेणैव संतुष्टं कर्मोन्मादेन विहलम् // मद्धर्मगुरुरेवात्र जायते करुणापरः / अमुभाहुःखसन्तानात्कथमेष वियोक्ष्यते // इति / ततो जिनमहावैद्योपदेशादवधारयति सद्धर्मगुरुस्तत्रोपायं / ततो धूर्ततस्करेविव सुप्तेषु रागादिषु क्षयोपशममुपगतेषु प्रज्वालयति जीवस्वरूपशिवमन्दिरे मज्ञानप्रदीपं पाययति सम्यग्दर्शनामलजलं समर्पयति चारित्रवज्रदण्डं / ततोऽयं जीवलोकः मतानप्रदीपोद्योतितखरूपशिवमन्दिरे महाप्रभावसम्यग्दर्शनमलिलपाननष्टकोन्मादो ग्टहीतचारित्रदण्डभासुरो गुरुवचनेनैव निर्दलयति मस्पर्धमाहय महामोहादिधूर्ततस्करगणं / तं च निर्दलयतोऽस्य जीवलोकस्य विशालौभवति कुशलाशयः चौयन्ते प्राचीनकर्माणि न बध्यन्ते नूतनानि विलीयते दुश्चरितानुबन्धः समुल्लमति जीववीर्य निर्मलीभवत्यात्मा परिणमति गाढमप्रमादो निवर्तन्ते मिथ्याविकल्पाः स्थिरीभवति समाधिरत्नं प्रहीयते भवसन्तानः / ततः प्रविघाटय त्येष जीवलोकश्चित्तापवरकावरणकपाटं / ततः प्रादुर्भवति खाभाविकगुणकुटुम्बकं / विस्फुरन्ति ऋद्धिविशेषाः / विलोकयति तानेष जीवलोको विमलसंवेदनालोकेन / ततः संजायते निरभिष्वङ्गानन्दमन्दोहः / समुत्पद्यते बहुदोषभवग्रामजिहासा / उपशाम्यति विषयमगढष्णिका / रूचीभवत्यन्तर्यामौ / विचटन्नि सूक्ष्मकर्मपरमाणवः / व्यावर्तते चिन्ता / संतिष्ठते विशद्धध्यानं / For Private and Personal Use Only