________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। पृष्टोऽनेनेको महावैद्यः / दत्तस्तेनोपदेशः / सम्यगवधारितोऽनेन / ग्टहीतमुपकरणं / गतो रात्रौ शिवायतनं / दूतश्च बहती वेला नाटयित्वा वठरगुरुं श्रान्ता व प्रसुप्तास्ते तस्मिनवसरे धूर्ततस्कराः। ततः प्रविष्टो माहेश्वरः। प्रचालितोऽनेन शिवमन्दिरे प्रदीपः / ततो दृष्टोऽसौ वठरगुरुणा माहेश्वरः / तथाभव्यतया च संजातखेदेन याचितोऽसौ जलपानं / माहेश्वरः प्राह / भट्टारक पिबेदं तत्त्वरोचकं नाम सत्तीर्थोदकं / पौतमनेन / ततः प्रनष्टः क्षणादुन्मादो निर्मलीभूता चेतना विलोकितं शिवमन्दिरं दृष्टास्ते धूर्ततस्कराः / किमेतदिति पृष्टो माहेश्वरः / कथितोऽनेन शनैः शनैः सर्वोऽपि वृत्तान्तः / ततोऽभिहितं गैवेन / तर्हि किं मयाधुना विधेयं / ततः समर्पितो माहेश्वरेणास्य वज्रदण्डः / प्राह च / भट्टारक वैरिणस्तवैते / ततो निपातय मा विलम्बिष्ठाः / ततः समुत्थाप्य चूर्णिता वज्रदण्डेन ते सर्वेऽपि तस्कराः शैवेन / प्रविघाटितश्चित्तापवरकः / प्रकटौभूतं कुटुम्बकं / आविर्भूता रत्नराशयः / प्रविलोकिता सर्वापि निजशिवमन्दिरविभूतिः / संजातः प्रमोदातिरेकः / ततो बहुतस्करं परित्यज्य तं भवग्रामं स्थितस्ततो बहिर्भूते निरुपद्रवे शिवालयाभिधाने गत्वा महामठे स मारगुरुरिति / तदयमौदृशो वृत्तान्तस्तस्य संपन्नः // नृपतिरुवाच / भदन्त कथमेष वृत्तान्तोऽत्र जने समानः / भगवानाह। महाराजाकर्णय / महामहेश्वरस्थानीयोऽत्र सद्धर्मप्रबोधकरो गुरुद्रष्टव्यो / यतः / विडम्ब्यमानं रागादितस्करैर्दुःखपौडितम् / For Private and Personal Use Only