SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पक्षमा प्रस्तावः / 13 क्षमामार्दवमत्यादिरूपं भावकुटुम्बकम् / न चायं बुध्यते लोकः सुन्दरं हितवत्सलम् // इदं च न विजानौते चित्तापवरके यथा / अमौभिरेव रागाद्यैरभिभूय तिरोहितम् // ततोऽयं तादृशैश्वर्यादनन्तानन्ददायिनः / भ्रंशितः सुखहेतोच कुटुम्बात्तैर्वियोजितः // क्षिप्तश्चात्र भवग्रामे दुःखसङ्घातपूरिते / तथापि लोको रागादौन् वयस्थानिव मन्यते // भिक्षाभूतमिदं तन्धा तथा वैषयिकं सुखम् / इष्टो नृत्यति मूढात्मा यथासौ वठरो गुरुः // तदेवमेव राजेन्द्र जनस्तत्त्वं न बुध्यते / दुःखसागरमध्यस्थः सुखित्वं तेन मन्यते // धवलराजेनोकं / भदन्त यद्येवं ततः सततमुन्मत्ता वयं विषमा रागादितस्कराः मुषितं स्वरूपशिवायतनं नाशितं भावकुटुम्बं पर्यटामो भवग्रामे सुदर्लभा भोगभिक्षा तलवलाभेन तष्टा वयं निमग्राः परमार्थतो दुःखमागरे। अतः कथं पुनरितोऽस्माकं मोक्षो भविष्यतीति / बुधमूरिणोतं / महाराज भविष्यति भवतामितो भवविडम्बनान्मोक्षो यदि यादृशं तस्य वठरगुरोर्वृत्तान्तान्तरं संपलं तादृशं भवतामपि संपद्येत / नृपतिराह / भदन्त किं पुनस्तस्य संपवं / भगवतो / महाराज तं तथानवरतं तेधूर्ततस्करैः खलीक्रियमाणं वठरगुरुमुपलभ्य समुत्पना कस्यचिदेकस्य महामाहेश्वरस्य तस्योपरि करुणा / यदुत कथमस्थ दुःखविमोचो जायेत / ततः For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy