________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / च्यावितमनुरक्तसुन्दरनिजकुटुम्बात् पातितं दुःखसमुद्रे शोच्यमात्मानमाकलयतौति // तदेष महाराज निवेदितस्ते मया वठरगुरुयेन सदृशोऽयं लोक इति // नृपतिराह / कथमेतत् / भगवतोतं / आकर्णय / ग्रामोऽत्र भूप संसारो विस्तीर्णस्तस्य मध्यगम् / स्वरूपं जीवलोकस्य विज्ञेयं शिवमन्दिरम् // तदेव ज्ञानवौर्यादिरत्नपूरैश्च पूरितम् / संपूर्ण सर्वकामैश्च परमानन्दकारणम् // जीवलोकश्च तत्वामी भौताचार्यो निगद्यते / तस्य स्वाभाविकाः सर्वे ये गुणस्तत्कुटुम्बकम् // तत्तु स्वाभाविकं तस्य सुन्दरं हितकारि च / तथापि जौवलोकस्य न चित्ते प्रतिभासते // सोऽयं लोकः मदोन्मत्तः कर्मयोगेन वर्तते / न जानौते निजं रूपं गुणरत्नादिपूरितम् // रागादिदोषाः सर्वेऽपि तस्कराः परिकीर्तिताः / त एव हि महाधूर्ता जौवलोकस्य वञ्चकाः // सुहृदस्ते प्रभामन्ते जीवलोकस्य वल्लभाः / ते च गाढं प्रकुर्वन्ति कन्मिादस्य वर्धनम् // ते खरूपं वशीकृत्य जीवलोकस्य ये गुणाः / कुटुम्बमन्तस्तत्क्षिप्ता चित्तद्वारं निरुन्धते / तदेवं ते धरानाथ गुणसम्भारपूरितम् / स्वरूपं जौवलोकस्य हृत्वा मन्दिरमन्निभम् // For Private and Personal Use Only