________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। तत्रासौ विरलां भिक्षां लभते छायया तया / यथायं देवगेहस्य रत्नपूर्णस्य नायकः // कदर्यते च तत्रापि षिगसोकैस्तथा परैः / अथान्यदा क्वचित्तस्य भग्नं तत्ताम्रभाजनम् // तत्र भग्ने पुनः पात्रे दत्त्वा राजतभाजनम् / तथेव वेष्टितचौरैनौतोऽसौ तुर्यपाटके // तत्र चात्यन्तविख्यातः किलायं रत्ननायकः / ततः सुसंस्कृतां भिक्षां लभतेऽसौ ग्रहे ग्राहे // एवं ते तस्करास्तेषु पाटकेषु पुनः पुनः / भ्रमयन्येव तं भौतं नाटयन्तो दिवानिशम् // हमन्तश्चर्णयन्तश्च वल्गमाना ग्टहे ग्रहे। कृततालारवा हृष्टा नानारूपैविडम्बनः // म तथा क्रियमाणोऽपि तस्करैठरो गुरुः / भिक्षामात्रेण हृष्टात्मा वल्गते पूरितोदरः // गायति च / कथम् / अतिवत्सलको मम मित्रगण: कुरुते विनयं च समस्तजनः / तदिदं मम राज्यमहो प्रकटं भ्रियते जटरं सुधया विकटम् / / श्रात्मानं मन्यते मूढो मनं च सुखसागरे / द्वेष्टि तस्करदोषाणां कथकं स जडो जनम् // न पुनरमौ वराको बहिर्भावितं रनादिसमृद्धवादात्मौयभवना For Private and Personal Use Only