________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / निजधर्ततया प्रकटं जगतां खादेम पिबेम च हस्तगताम् // स पुनरधन्यो वठरगुरुर्न लषयति तामात्मविडम्बनां नाव. बुध्यते निजकुटुम्बव्यतिकरं न जानौते समृद्धशिवायतनहरणं नावगच्छति तेषां रिपुरूपतां मन्यते च महामित्रभावं / ततो हष्टतुष्टो रात्रौ दिवा च तेषां तस्कराणां कुटुम्बस्य मध्यगतो नृत्यनास्ते / तत्र च ग्रामे चत्वारः पाटकाः प्रतिवमन्ति / तद्यथा / जघन्योऽतिजघन्य उत्कृष्ट उत्कृष्टतरश्चेति / ततोऽसौ वठरगरू बु. भुक्षाधामस्तान् भोजनं याचते / ततस्तैः समर्पितं तस्य तस्करैम . हाघटकपरं। चर्चितो मषोपुण्डकैरभिहितश्च / वयस्य गुरो भिक्षामट / विहितमेव तत्तेन। ततस्तैः परिवेष्टित एव गतोऽमौ तत्रातिजघन्यपाटके भिक्षार्थे / ततो यहे ग्टहे नृत्यन्नसौ वेष्टितस्तैर्विहिततालारवैर्विचरितुं प्रवृत्तः / मंज्ञितास्तस्करैः पिङ्गलोकाः यथा चूर्णयतैनं / ततस्तैः किं कृतं / यष्टिमुष्टिमहालोष्टप्रहारैस्ताडितो भृशम् / स वराको रटन्नुच्चैः कृतान्तैरिव दारुणैः // अनुभूय महादुःखं चिरं भिचाविवर्जितः / निर्गतः पाटकात्तस्मात्ततोऽसौ भमकर्परः // ततः समर्पितं तैस्तस्करस्तस्य शरावं / नौतमात्र जघन्ययाटके / तत्रापि न लभते भिक्षा बाध्यते षिगजनेन / ततमात्रापि पर्यव्य चिरं भग्ने शरावके / उत्कृष्ट पाटके नौतस्तैर्दत्त्वा ताम्रभाजनम् // For Private and Personal Use Only