________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 805 न लक्षयति तां शिवभवनसमृद्धिं। ततो विज्ञातमिदं तस्य चेष्टितं तगामवासिभिस्तस्करैः। ततो धूर्ततया तैरागम्य कृता तेन भौतेन सह मैची। तस्य चोन्मत्तकतयैव ते तस्कराः सुन्दरा वत्माला हितकारिणो वल्लभाश्च प्रतिभासन्ते / ततोऽपकर्ण्य तदात्मीयं कुटुम्बकं तैरेव मार्धमनवरतं विलसन्नास्ते / ततोऽसौ वारितो माहेश्वरैः / यथा भट्टारक चौराः खल्वेते मा कार्षीरमौभिः सह सम्पर्कमिति / म तु न श्टणोति तद्वचनं / ततो मूर्ख इति मत्वा तैर्माहेश्वरैः सारगुरुरिति नामापत्य तस्य वठरगुरुरिति नाम स्थापितं / परित्यकं च सर्वमाहेश्वरैधूर्ततस्करपरिकरितं तन्मित्रभावमापन्नं वठरगुरुमुपलभ्य तद्देवमन्दिरं / ततो लब्धप्रसस्तै—ततस्करोगदानेन तस्य वर्धितो गाढतरमुन्मादो वशीकृतं शिवायतनं अभिभूतं तत्कुटुम्बकं चिप्तं मध्यापवरके तालितं तस्य द्वारं / ततो वशीभूतमस्माकं सर्वमिति मत्वा तुष्टचित्तैस्तैरेकः स्थापितो महाधूर्तस्तस्करो नायकः / ततः कृततालारवास्तस्याग्रतस्तं वठरगुरुं नाठयन्तस्तिष्ठन्ति / गायन्ति चेदं गौतकं / यदुत। धर्तभावमुपगम्य कथंचिदहो जना वञ्चयध्वमपि मित्रजनं हतभोजनाः / मन्दिरेऽत्र वठरस्य यथेष्टविधायका एत एत ननु पश्यथ वयमिति नायकाः // क्वचित्पुनरेवं गायन्ति / यदुत / वठरो गुरुरेष गतो वाता वसतिं वयमस्य सरत्नगताम् / For Private and Personal Use Only