________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SIC उपमितिभवप्रयचा कथा / कदर्थनं प्रकुर्वन्ति शुद्धप्राथमृणं यतः // शोधयन्ति च ते नित्यं माधवः कृतनिश्चयाः / मृणं तत्तेन ते तेषामणिका नैव बाधकाः // मृणार्दिता मया पूर्व यूयमेतेन हेतुना / प्रोता भूप तथात्मा च पृणमुक्तः प्रकाशितः / / यथा च प्रचलायन्ते भावतोऽमी नरेश्वर / जैनधर्मबहिर्भूता जन्तवस्तन्निशामय // दुरन्तः कर्मसन्तानो घोरः संसारसागरः / रौद्रा रागादयो दोषास्तरलं देहिनां मनः // चटुलश्चेन्द्रियग्रामो दृष्टनष्टं च जीवितम् / चला विभूतयः सर्वा देहश्च क्षणभङ्गुरः // शत्रुः प्रमादो जीवानां दुस्तरः पापमञ्चयः / असंयतत्वं दुःखाय भीमो नरककूपकः // अनित्याः प्रियसंयोगा भवन्त्यप्रियसङ्गमाः / क्षणरत्नविरक्ताश्च योषितो मित्रबान्धवाः // उग्रो मिथ्यात्ववेतालो जरा करविवर्तनौ / भोगाश्चानन्तदुःखाय दारुणो मृत्युभूधरः // एतत्सर्वमनालोच्य कृत्वा पादप्रसारिकाम् / विवेकचक्षः संमौल्य स्वपन्ति ननु जन्तवः / / महाघुरघुरारावं कुर्वन्तो नष्टचेतनाः / कथंचित्र प्रबुध्यन्ते शब्दैरपि विवेकिनाम् / विबुद्धा अपि कृच्छ्रेण पूर्णमानेन चक्षुषा / For Private and Personal Use Only