________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 88 भूयो भयः स्वपन्येव ते महामोहनिद्रया // अन्यच्च / कुतो वयं समायाताः प्रापिता: केन कर्मणा / क्वागताः क्व च यास्थामो विदन्येतन्त्र मूढकाः // ततो यद्यपि दृश्यन्ते वल्गमानाः पृथग्जनाः / तथापि तत्त्वतो भूप विज्ञेयाः प्रचलायिताः // साधूनां पुनरेषा भो महामोहतमोमयौ / निद्रा नात्येव धन्यानां तेन ते नित्यजागराः // सर्वज्ञागमदीपेन माधवस्ते महाधियः / गत्यागती प्रपश्यन्ति स्वस्थान्येषां च देहिनाम् // ततश्च / ते बहिन्द्रिया भूप सुप्ता अपि कथंचन / असुप्ता इति विज्ञेया विवेकोन्मीलितेक्षणाः // दूदमेव मया सर्व संचिन्त्य हृदये पुरा / यूयं भोः प्रचलायचे नाहमित्येव भाषितम् // तथा। ययमेव न जानौथ स्वरूपं मोहनिद्रिताः / मम प्रत्यक्षमेवेदं विवेकस्फुटचक्षुषः // अन्यच्चैवं व्यवस्थिते / ये सद्धर्मबहिर्भूतास्त एव परमार्थतः / देहिनो भूप विज्ञेया दारिद्र्याक्रान्तमूर्तयः // तथाहि / For Private and Personal Use Only