________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 767 परायत्ता न जानन्ति परमार्थममेधसः // तथाहि / माता भ्राता पिता भार्या दुहिता पुत्र इत्यपि / सर्वेऽपि जन्तवो जाता निरादिभवचक्रके // ततो विज्ञातमद्भावः को हि नाम मकर्णकः / तदायत्तो भृशं भूत्वा स्वकार्ये हारयेन्नरः // अत एव महात्मानस्तत्कनचादिपञ्चरम् / संपरित्यज्य निःशेषं जाता निःमजबुद्धयः // न एव छपरायत्तास्त एव कृतिनो नराः / त एव स्वामिनो भूप सर्वस्य जगतोऽनघाः // गुरूणां ते परायत्ता भवन्तोऽपि महाधियः / निर्मुक्का गृहपाशेन तस्मादत्यन्तमुत्कलाः // इदं च पदये कृत्वा कारणं मानवेश्वर / यूयमुक्ताः परायत्ता मयात्मा तदिलक्षणः // तथा / ये च तेऽष्टौ मया पूर्वमणिकाः संप्रकाशिताः / विद्धि तान्यष्ट कर्माणि दुःखदानोह देहिनाम् // ते चामी सततं जौवाः कदर्थ्यन्ते मुर्मुहुः / दानपहणिकैर्भूप कर्मभिस्तौबदारुणैः // बुभुक्षिताः क्वचिद्दौना धार्यन्तेऽत्यन्तविकलाः / कचिङ्गाद प्रपौद्यन्ने चिन्ता नरककोष्ठके // माधूनामपि ते सन्ति ऋणिकाः किं तु नो तथा / For Private and Personal Use Only