________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। जराजौर्ण रुजाक्रान्ताः मोन्मादा इति तत्पुरा / यूयं नाहमिति प्रोक्तं सर्वमेतेन हेतुना // तथा / पश्यन्तोऽपि विशालेन चक्षुषा बहिरनमा / अन्तर्वसुंधरानाथ कामान्धा मूढजन्तवः // विकलाक्षा मया पूर्व तेनामी परिकीर्तिताः / साधूनां विकलावलं कामजन्यं न विद्यते // अतो यद्यपि दृश्यन्ते ते बहिनष्टदृष्टयः / तथापि माधवो नैव विकलाचा नराधिप / तेनामौ जन्तवः प्रोक्ता विकलाक्षा मया पुरा / श्रात्मा प्रकाशितो भूप मज्जाचश्चारुलोचनः / राजनेते परायत्ता यथा गेहस्थजन्तवः / माधवस्वपरायत्तास्तथा ते कथ्यतेऽधुना // निःखेहं परमार्थन भिन्नकर्मविनिर्मितम् / इदं कलत्रपुत्रादि तत्पोषणमदोद्यताः // अदृष्टपरमार्थानामत्यन्तं मनमः प्रियम् / तत्त्वभूतमिदं तेषां मूढानां प्रतिभासते // ततस्तदर्थं क्लिश्यन्ते दामाः कर्मकरा यथा / रात्रौ दिवा च मोहेन पशभता वराककाः / पाहारयन्ति न वस्था रात्रौ निद्राविवर्जिताः / चिन्तयाकुलिता नित्यं धनध्यानपरायणाः // तदेवं ते कुटुम्बस्य मदेवादेशकारिणः / For Private and Personal Use Only