________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 763 तदिदं कारणं मत्वा भवन्तः खेदनिःसहाः / अहं तु नेति राजेन्द्र मया पूर्व निवेदितम् // तथा / क्रोधो मानस्तथा माया लोभश्चेति चतुर्विधः / तापः संमारिणां भूप मर्वाङ्गीण: सुदारुणः // तेन दन्दह्यमानास्ते तापार्ताः सततं मताः / यद्यपौह विलोक्यन्ते चन्दनादिविलेपिताः // माधवस्तु महाराज सततं शान्नमानसाः / निष्कषाया महात्मानो निस्तापाः पापसूदनाः // ततो यद्यपि दृश्यन्ते ते बहिस्तापपौडिताः / तथापि परमार्थन विज्ञेयास्तापदूरगाः // इदमेव मया ज्ञात्वा यूयं तापार्दिताः पुरा / अहं तु नेति राजेन्द्र प्रतिज्ञातमशङ्कया / तथा / कुविकल्पकृमिस्थानं मिथ्यात्वं भूप देहिनाम् / गलदास्तिक्यजाम्बालं कुष्ठमुक्त मनीषिभिः / विनाशयति तर्प गडुद्धिवरनासिकाम् / घर्घराव्याघोषं च नरं धत्ते मदोद्धतम् // शमसंवेगनिवेदकारुण्यानि च मूलतः / हस्तपादसमान्येषां शाटयत्येव देहिनाम् // तेन मिथ्यात्वकुठेन विद्वदुद्वेगहेतुमा / श्राक्रान्ताः पृथिवीनाथ सदामौ मूढजन्तवः // 100 For Private and Personal Use Only