________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 762 उपमितिभवप्रपचा कथा / ये केचिर्प दृश्यन्ते जैनधर्मबहिष्कृताः // मुनयस्तु सदा धन्या भाविभोगेषु निःस्पृहाः / तेनोदकं विनाप्येते पिपासादूरवर्तिनः // अत: पिपामिता यूयमहं तु न हषार्दितः / मयेदं कारणं मत्वा पुरा राजनिवेदितम् // तथा / अलन्धमूलपर्यन्तो दोषचौरशताकुन्तः / विषमो विषयव्यालो दुःखधूल्या प्रपूरितः // अयं नरेन्द्र संसारो विद्यद्भिर्भावचक्षुषा / अध्वा निरौक्षितो घोरः खेदहेतुः शरीरिणाम् // एते च सततं जीवा ग्टहीत्वा कर्मशम्बलम् / वहन्तो भवमार्गेऽत्र न कुर्वन्युत्प्रयाणकम् // तेनामी जैनसद्धर्मरहिता मूढजन्तवः / संभाराध्वमहाखेदखेदिताः मतनं मताः // ततो यद्यपि दृश्यन्ते रहे शौतलमण्डपे / तथापि तत्त्वतो ज्ञेया गच्छन्तः पथि ते सदा // मुनयस्त सदा भूप विवेकवरपर्वते / पारूढाः मतताहादे वर्तन्ते जैनसत्पुरे // तत्र चित्तसमाधानं मण्डपं हिमगौतलम् / प्रासाद्य निर्वतात्मानस्तिष्ठन्ति विगतमाः // ततो यद्यपि दृश्यन्ते ते बहिः खेदनिःमहाः / विज्ञेयाः खेदनिर्मुकास्तथापि परमार्थतः // For Private and Personal Use Only