________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 988 उपमितिभवप्रपञ्चा कथा ततो यद्यपि दृश्यन्ते सर्वावयवसुन्दराः / तथापि भावतो ज्ञेयाः कृमिजालक्षताङ्गकाः / / सम्यग्भावेन पूतानां मुनौनां पुनरोदृशम् / कुष्ठं नास्येव तेनामी सर्वावयवसुन्दराः // ततश्च / कथंचिदपि यद्यते बहिः कुष्ठसमन्विताः / भवेयुर्भावतो भूप तथापि न तथाविधाः // अत एव मया पूर्वमिदमालोय कारणम् / तथोक्ताः कुष्ठिनो यूयं नाहं कुष्ठौति चोदितम् // तथा / परेषु देषदुष्टानां समृद्धिं वीक्ष्य देहिनाम् / ईर्ष्या या जायते भूप मा शूलमभिधीयते / ईर्ष्याशूलेन चाकान्ताः परेषां व्यसने क्षमाः / देषाधाताः प्रकुर्वन्ति वत्रामङ्ग पुनः पुनः // तच नास्ति महाशूलं मुनौनां धरणीपते / सर्वत्र समचित्तास्ते वौतद्वेषा हि साधवः // इदं कारणमाश्रित्य शूलाक्रान्ताः पुरा मया / यूयमुकास्तथात्मा च शूलहीनः प्रकाशितः // अनादिभवचक्रे ऽत्र यथा भूताः कथंचन / तथाद्यापि प्रवर्तन्ते सदामी भूप जन्तवः // कदाचित्र पुनः प्राप्तं विद्याजन्म मनोहरम् / नैतैर्विवेकतारुण्यं न मृता भावमृत्युना // For Private and Personal Use Only