________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 567 भृत्याश्चिरन्तनसम्भावनया / ततश्चैवमवधार्य महामोहराजेनामन्त्रितास्ते सर्वेऽपि निजास्थानस्थायिनो महीपालाः / यद्त भो भोः समाकर्णयत यूयं / दातव्यं मया भवचक्रनगरान्तर्भूते मानवावासपुरे मकरध्वजाय राज्यं / तत्र युभाभिः समस्तैःसन्निहितैर्भाव्यमङ्गोकतव्योऽस्य पदातिभावो विधातव्यो राज्याभिषेको भवितव्यमाज्ञानि मक्षुखं समस्तस्थानेषु / मयापि प्रतिपत्तव्यमस्य राज्ये स्वयमेव महत्तमत्वं / तस्मात्मज्नीभवत यूयं / गच्छामस्तत्रैव पुरे। ततस्तैभूपतिभिरवनितलविन्यस्त हस्तमस्तकैः समस्तैरभिहितं / यदाज्ञापयति देवः / ततोऽभिहितो महामोहराजेन मकरध्वजः / यथा भद्र भवतापि राज्य स्थितेन तत्र पुरे न हरणीयमेतेषां नरपतौनाँ निजं निजं यत्किमपि यथार्हमाभाद्यं / द्रष्टव्याः सर्वेऽप्यमी पुरातनसम्भावनया। मकरध्वजेनोनं / यदादिशति मोहराजः // ततः ममागतास्ते सर्वेऽप्यत्र नगरे। अभिषिको मानवावामपुरे राज्य मकरध्वजः / प्रतिपन्नः शेषैर्यथाहं तन्नियोगः / इतश्च योऽयं गजस्कन्धारूढो दृश्यत एष मानवावासवर्तिनि ललितपुरे लोलाक्षो नाम बहिरङ्गो राजा / ततस्तेन मकरध्वजेन ससैन्यपौरजनपदः स्वमाहात्म्येन निर्जित्य निःमारितोऽयमित्य बहिः काननेषु / न चायमात्मानं तेन जितं वराको लक्षयति / नाप्येते लोकास्तेनाभिभूतमात्मानमवबुध्यन्ते / ततो भट्रानेन व्यतिकरण तस्य मकरध्वजस्य महामोहादिपरिकरितस्य प्रतापादेते लोकाः खल्वेवं विचेष्टन्त इति / प्रकर्षणोक्तं / मोऽधुना कुत्र मकरध्वजो वर्तते / For Private and Personal Use Only