________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 596 प्रपञ्चा कथा। स्वामिनी निर्देशन गन्तव्यमधुमा मया भवचक्रनगरमध्यवर्तिनि मान - वावासाभिधानेऽवान्तरपुरे / तेनाहं चिरविरहकातरतया भवतो दर्शनार्थमिहागत दूति / ततः महर्षण मकरध्वजेनोनं / मखे वसन्त किं विस्मृतं भवतोऽतीतसंवत्सरे यन्मया भवता च तत्र पुरे विलसितं येनैवं भाविविरहवेदनाविधुरचित्ततया खिद्यसे / तथाहि। यदा यदा भवतस्तत्र पुरे गमनाय स्वामिनीनिर्देशोऽभवत् तदा तदा मह्यमप्येष महामोहनरेन्द्रस्तत्रैव पुरे राज्यं वितरति स्म / तत्किमितीयमकारणे भवतो मया सह वियोगाशङ्का / वसन्तेनोकं / वयस्य प्रत्युनौवितोऽहमधुना तेन कमनीयवचनेन। इतरथा विस्मृत एवासीननं ममेष व्यतिकरः / तथाहि / अकाण्डापन्नकार्याणां सुहृदिरहचिन्तया / विस्मरत्येव हस्तेऽतिग्टहीतं निखिलं नृणाम् // तत्मुन्दरमेवेदं / गच्छाम्यहमधुना / भवद्भिस्तूर्णमागन्तव्यं / मकरध्वजेनोकं / विजयस्ते। ततः समागतोऽत्र पुरे वसन्तः। दर्शितं काननादिषु निजविलमितं / मकरध्वजेनापि विज्ञापितो विषयाभिलाषः / यथा पाल्यतां ममानुग्रहेण मा चिरन्तनौ मम्भावना / चित्तस्थ एव भवतामेष वसन्तवृत्तान्तः / ततो निवेदितं विषयाभिलाषेण रागकेसरिणे तदवस्थमेव तन्मकरध्वजवचनं / तेनापि कथितं महामोहराजाय / ततश्चिन्तितमनेन / अरे कृतपूर्व एवास्य 'वसन्तगमनावसरे प्रतिसंवत्सरं मया मकरध्वजस्य मानवावामपुरे राज्यप्रमादः / तदधनापि दौयतामम्मै मकरध्वजाय राज्यं / यतो न लङ्घनौया कदाचिदप्युचितस्थितिरस्मादृशः प्रभुभिः पालनीया For Private and Personal Use Only