________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 565 लमदुद्भटभूरि विलासकरे मदनामलदौपितमर्वजने / अथ तादृशलोचनगोचरतां किमचिन्ति गते तु महामतिना // ददं हि तदा मधुमासरमवशमत्तजनजनितं तत्तादृशं गुन्दलमवलोक्य विमर्शन चिन्तितं / यदुत अहो महामोहसामर्थ्य अहो रागकेसरिविलमितं अहो विषयाभिलाषप्रतापः अहो मकरध्वजमाहात्म्यं अहो रतिविम्भितं अहो हासमहाभटोल्लास: अहो अमीषां लोकानामकार्यकरणधीरता अहो प्रमत्तता अहो स्रोतोगामिता अहो प्रदीर्घदर्शिता अहो विक्षिप्तचित्तता अहो अनालोचकत्वं अहो विपर्यासातिरकः अहो अशुभभावनापरता अहो भोगष्णादौललित्यं अहो अविद्यापहतचित्ततेति // ततः प्रकर्षा विस्फारिताक्षो निरीक्षमाणस्तलोकविलमितमभिहितो विमशैन / भद्र एते बहिरङ्गजना यद्विषयो मया वर्णितस्तेषां महामोहादिमहीभुजां प्रतापः / प्रकर्षः प्राह / माम केन पुनर्वृत्तान्तेन कतमस्य वा भूभुजः प्रतापेन खल्वे ते लोका एवं चेष्टन्ते / विमर्शनोक्तं / निरूप्य कथयामि / ततः प्रविश्य ध्यानं निश्चित्य परमार्थमभिहितमनेन। भट्र समाकर्णय / असौ चित्तवृत्तिमहाटव्यां प्रमत्ततानदौपुलिनवर्तिनि चित्तविक्षेपमहामण्डपे महामोहराजसम्बन्धिन्यां तृष्णावेदिकायां महाविष्टरे निविष्टो दृष्ट स्त्वया मकरध्वजः / तस्यायं वमन्तः प्रियवयस्यको भवति / ततो लजितप्राये शिशिरे गतोऽयमामौत् तन्मले / स्थितस्तेन सह सुखासिकया / अयं च वसन्तः कर्मपरिणाममहादेव्याः कालपरिणतेरनुचरः / ततस्तस्मै मकरध्वजाय प्रियसुहदे निवेदितमनेन वसन्तेनात्मगुह्यं / यदुत For Private and Personal Use Only