________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यूह उपमितिभवप्रपञ्चा कथा / निपतन्मदवारिसुन्दरः प्रमदभरोद्भुरलोकसेवितः / अनिताखिलसुन्दरीमनोहदुन्माथकरूपधारकः // मधुमासदिदृक्षया पुरादथ वरराजकपौरवेष्टितः / नृपतिर्निरगात्ममं बलैरिव बन्धुधिया घनागमः // स च वादितमर्दलैलमदरकंसालकवेणुराजितैः / कृतनृत्तविलामचारुभिर्न न भाति स्म सुचञ्चरोशतैः // ततो दृष्टस्ताभ्यां विमर्शप्रकर्षाभ्यां नगरानिर्गतो महासामन्तवृन्दपरिकरितो वरवारणस्कन्धारूढो विकसितोद्दण्डपुण्डरीकपरिमण्डलपाण्डरेण महता छत्रेण वारितातपो मघवानिवाधिष्ठितैरावतो विबुधसमूहमध्यगतश्च स नरेन्द्रः / विलोकितश्च तस्य पुरतो दृष्टः कलकलायमानो भूरिमितातपत्रफेनपिण्डः जम्भित व महासागरचलत्कदलिकासहस्रकरैः स्पर्द्धया त्रिभुवनमिवाधिक्षिपन्नतिभूरितयासौ जनसमुदायः / प्राप्तश्चोद्यानपरिमरे राजा / अत्रान्तरे विशेषतः समुल्लसिताश्चञ्चर्यः प्रहता मृदङ्गा वादिता वेणवः समुलासितानि कंसालकानि रणरणायितानि मञ्जीरकाणि प्रवर्धितस्तालरवो विजृम्भितः खिङ्गकोलाहलः प्रवृत्तो जयजयरवः समर्गलोभूतो बन्दिवृन्दशब्दः प्रवृत्ता गणिकागणाः क्षुभितः प्रेक्षकजनः संजाताः केलयः / ततस्ते लोकाः केचिन्नत्यन्ति केचिदलान्ति केचिद्धावन्ति केचित्कलकलायन्ते केचित्कटाक्षयन्ति केचिल्लठन्ति केचिदुपहसन्ति केचिद्गायन्ति केचिदादयन्ति केचिदुलसन्ते केचिदुकृष्टिशब्दान् मुञ्चन्ति केचिदाहुमूलमास्फोठयन्ति केचित्परस्परं मलयजकश्मीरजक्षोदरसेन कनकश्टङ्गकैः सिञ्चन्ति / ततश्चैवं मति / For Private and Personal Use Only