________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 583 दृश्यन्ते प्रायेणैवाच प्रदेशे स्थितैर्य एते मामेनोहाटिता वनविभागा इति / किंच न केवलमेते काननाभोगाः सर्वेऽपि विविधमधुपानमत्तोत्तालकलितललितमर्दलोल्लाममिलितबहललोककलकलाकुलाः किं तर्हि / क्वचिद्रसनूपुरमेखलागुणैनितम्बविम्बातुलभारमन्थरैः // तरुप्रसूनोच्चयवाञ्छयागतैः मभकर्भान्ति विलासिनौजनैः // क्वचित्तु तैरेव विघष्ठिताः स्तनैर्महेभकुम्भस्थल विधमैरिमे / विभान्ति दोलापरिवर्तिभिः कृताः सकामकम्पा व माम शाखिनः॥ क्वचिल्लसद्रामनिबद्धकौतुकाः क्वचिद्रहःस्थाननिबद्धमैथुनाः / इमे क्वचिन्मुग्धविलामिनौमुखन पद्मषण्डादधिका न शोभया // विमर्शनाभिहितं / साध भद्र माधु सुन्दरं विलोकितं भवता / नूनमेवंविधा एव सर्वेऽपीमे काननाभोगाः / अत एव मयाभिहितं यथावसरे भवतो भवचक्रनगरदर्शनकुतूहलं संपन्नं यतोऽस्मिबेव वसन्तकाले नगरस्यास्य सौन्दर्यमारमुपलभ्यते / तदेते विलरेकिता भद्र भवता तावदहिर्वनाभोगाः / माम्प्रतं प्रविशावो नगरं / विलोकयावस्तदीयश्रियं येन तव कौतुकमनोरथः परिपूर्णो भवति / प्रकर्षणोकं / प्रतिदर्शनीयमिदं बहिलाकविलमितं। रमणीयतरोऽयं प्रदेशः। पथि श्रान्तश्चाहं / अतः प्रमादं करोतु मे मामः। तिष्ठतु तावदत्रैव क्षणमेकं / स्तोकवेलायां नगरे प्रवेच्याव इति। विमर्शनाभिहितं। एवं भवतु // ततो यावदेष जल्पस्तयोः संपद्यते तावत् किं संवृत्तम्। रथघणघणरावगर्जितः करिसङ्घातमहाभ्रविभ्रमः / निशितास्त्रवितानवैद्युतश्चलाक्लाश्वमहावलाहकः // 75 For Private and Personal Use Only