SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 562 उपमितिभवप्रपञ्चा कथा / मणिविनिर्मितभाजनसंस्थितैरतिविनीतजनप्रविढौकितैः / प्रियतमाधरसृष्टविदंशनैश्चषकरत्नमयूखविराजितः // सुरभिनौरजगन्धसुवासितैः सुवनितावदनाम्बरूहार्पितैः / विविधमधरसैर्मुखपेशनैः कृतमिदं तदहो मदनिर्भरम् // तथाहि / पश्य वत्म यदत्रापानके ऽधुना वर्तते / पतन्ति पादेषु पठन्ति मादिताः पिबन्ति मद्यानि रणन्ति गायनाः / रमन्ति वाम्बुरुहाणि योषितामनेकचाटूनि च कुर्वते जनाः // वदन्ति गुह्यानि मशब्दतालकं मदेन नृत्यन्ति लुठन्ति चापरे। विपूर्णमानैर्नयनेस्तथापरे मृदङ्गवंशध्वनिना विकुर्वते / / खपूर्वजोल्लामनगर्वनिर्भरा धनानि यच्छन्ति जनाय चापरे / धमन्ति चान्ये विततैः पदक्रमैरितस्ततो यान्ति विना प्रयोजनम् / एवं च यावद्दर्शयति प्रकर्षस्य विमर्शस्तदापानकं तावनिपतिता माधवौलतावितानमण्डपे कुवलयदलविलासलामिनौ प्रकर्षस्य दृष्टिः। अभिहितमनेन। मामेदमपरमापानकमेतस्मात्मविशेषतरं विजम्भते। विमर्गेनाभिहितं / ननु सुलभात्र भवचक्रनगरे वसन्तममयागमप्रमोदितानां नागरकलोकानामापानपरम्परा / तथाहि / पश्य चम्पकवीथिकां निरूपय मृदौकामण्डपान् विलोकय कुनकवनगहनानि निरौक्षख कुन्दपादपसन्दोहं निभालय रकाशोकतरुस्तोमं माक्षात्कुरु बकुशविटपिगहनानि / यद्येतेषामेकमपि विलसदुद्दामकामिनौवन्दपरिकरितमहेश्वरनागरकलोकविरचितापानकविरहितमुपलभ्येत भवता ततो मामकौनवचनेऽन्यत्रापि न सम्प्रत्ययो विधेयः प्रतारकत्वाद्रेणेति / प्रकर्षणोक्तं / ननु कोऽत्र मन्देहः / For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy