________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / पुरुषैः यावद्दवदग्धस्थाणरिवातिकृष्णो वर्णन बुभुक्षाक्षामेणोदरेण पिपामाशोषितेनाधरोष्ठेन अध्वखेदनिःमहेनाङ्गेन बहिरन्तस्तापसूचकेन खेदजलेन कुष्ठेन गलता कृमिजालोल्वणेन देहेन अन्त:शूलनिवेदकैर्मुखभङ्गः प्रकम्पमानया जराजौर्णकपोलया गात्रयच्या महाज्वरसूचकेन दौ_ष्णनिःश्वामजालेन मलाविलेनाश्रुगलनाविकलेन लोचनयुगलेन प्रविष्टया नामिकया शटितप्रायः करचरगैरभिनवलुञ्चितेन मस्तकेनात्यन्तमलिनैश्चीवरखण्डेललमानेन कम्बलेन ग्टहीतेन मदण्डेनालाबुद्दयेन करतलविलम्बिनौर्णिकपिच्छेन / मर्वथा निधानं मर्वदुःखानां दारिद्यस्य परा गतिः / अयमेवेति सर्वेषां तदामा हृदि स्थितम् // एनं वौक्ष्य नरं नाथ गाढं बीभत्मदर्शनम् / चिन्तितं च तदास्माभिः सोऽयं प्रत्यक्षनारकः / / ततोऽभिहितोऽस्माभिः / भद्र किमित्येवं विधे मध्याहे बम्धमौषि / किमिति शीतलच्छायायामुपविष्टः सुखामिकया न तिष्ठमौति / अनेनोक्तं / भद्रा न खल्वहं स्वायत्तोऽस्मि / गुरोरादेशेन पर्यटामि। तदायत्तोऽहं / अस्माभिश्चिन्तितं / अये परवशोऽयं वराकः / अहो कष्टमिदमस्य महत्तरं दुःखकारणं यदौदृशावस्थस्थापि पराधीनत्वं नाम / ततोऽभिहितमस्माभिः / भट्र किं पुनरेवमहर्निशमादेशं कुर्वतस्ते स गुरुः करिष्यति / अनेनोतं / भद्राः मन्ति मम कृतान्तसदृशा बलिनोऽष्टाणिकाः / तेभ्यो ग्रन्थिदानेन मां मोचयिष्यति / ततोऽस्माभिश्चिन्तितं / अहो कष्टतरमि For Private and Personal Use Only