________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / नृपतोषविधायिविलासकरे सुखसागरवर्तिनि राज्यधरे / अथ तत्र सुते सुभगे विमले प्रमदः क्रियते नगरे सकले // एवं चानन्दिते राजनि तुष्टायां महादेव्यां प्रमुदिते सकले जने विमलसुखसागरावगाहनेन प्रविष्टाः केचिनियुक्तपुरुषास्तत्र हिमग्टहे / दत्ता तैरन्तरा जवनिका / तया च व्यवहितमेकं पुरुषं संस्थाप्य कृतप्रणामैर्विज्ञपितं तैः / यथा देव देवादेशेन विचरनिरस्माभिदृष्टोऽयमत्यन्तदुःखितः पुरुषः समानौतश्च देवसमीपं / न चेष गाढबौभत्मतया देवदर्शनयोग्य इति मत्वा जवनिकया व्यवहितोऽस्माभिरिह प्रवेशित इत्येतदाकर्ण्य देवः प्रमाणं / धवलराजेनोक्तं / भो भद्राः क्व दृष्टोऽयं युमाभिः कथं चात्यन्तदुःखित इति / ततोऽभिहितमेकेन / देव अस्ति तावदितो निर्गता वयं देवादेशेन दुःखदारियोपहतलोकानयनाथं / निरूपितं नगरं यावदृष्टं समस्तमपि तत्मततानन्दं / ततो गता वयमरण्ये यावदृष्टा दूरादयं पुरुषः / कथं / वर्तमानेऽतिमध्यान्हे भूतले वहिमनिभे // उत्तप्तलोहपिण्डाभे जगत्तपति भास्करे / निर्दाहिमुर्मुराकारे सूक्ष्मधलौमहाचये // पादत्राणविनिर्मुक्तो गच्छन्नेष विलोकितः / ततोऽयं दुःखित इति कृत्वा दूरादुच्चैरभिहितो ऽस्माभिः / यदुत भो भो भद्र तिष्ठ तिष्ठति। अनेनोक्तं / भो भद्राः स्थितोऽहं ययं तिष्ठतेति / ब्रुवाणो गन्तुं प्रवृत्तः / ततो मया गत्वा वेगेन बलादानौतोऽयं तस्मूले / निरूपितः सर्वै राज For Private and Personal Use Only