________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 777 करिष्यामः प्रवेशं ते शरीरे पुरुषोत्तम / प्रतीच्छ भवितव्यं च भवता चक्रवर्तिना // एतच्चास्माभिरादिष्टं विद्याधरबलं तव / पदातिभावमापनमायातं द्वारि वर्तते // लमत्कुण्डलकेयूरकिरीटमणिभाखराः / ततः प्रविश्य ते सर्व खेचरा मे नतिं गता // अत्रान्तरे प्रहतमुद्दामातोद्यशब्दं प्राभातिकतरं / पाँठतं च कालनिवेदकेन / यदुत एष भो भास्करो लोके स्वभावादृदयं गतः / प्रबोधकारको नृणां दृष्टिप्रसरदायकः // सदनुष्ठानहेतुश्च सर्वामामर्थमम्पदाम् / सम्पादक इति ख्यातः मद्धर्म व वर्तते // ततः / भो भो लोकाः समुत्थाय सद्धर्म कुरुतादरम् / येन वोऽतर्किता एव संपद्यन्ते विभूतयः // एतच्चाकर्ण्य चिन्तितं मया / अये भगवद्भाषितमद्धर्ममाहात्म्यमिदं यदतर्कितोपनता एव सिद्धा ममैता: सर्व विद्याः / न चेदं मे हर्षस्थानं / विघ्नः खल्वेष समुपस्थितो मे। न भविष्यति विमलेन साधं दीक्षाग्रहणं / यतः पुण्यानुबन्धि पुण्यमपि भगवता मौवर्णिकनिगडतुल्यं व्याख्यातं / श्रादिष्टं च पूर्वमेव मे चन्दनेन विद्याधरचक्रवतित्वं समर्थितं च महात्मना विमलेन। तत्का गतिः / भवितव्यमेवमनेन / तदेवं चिन्तयत एव मे कृतो देवताभिः 98 For Private and Personal Use Only