________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 776 उपमितिभवप्रपञ्चा कथा / इतो गतोऽहं वैताब्ये दृष्टाम्बा शोकविहला / तातश्च मदियोगेन तौ च संधीरितौ मया // अथातीते दिने तस्मिन् मङ्गमानन्दबन्धुरे / रात्रौ स्थितोऽहं शय्यायां कृतदेवनमस्कृतिः / ध्यायतः परमात्मानं भगवन्तं जिनेश्वरम् / समागता च मे निद्रा द्रव्यतो न तु भावतः // तावद् भो भो महाभाग भुवनेश्वरभनक / उत्तिष्ठेति गिरं श्टण्वन् विबुद्धोऽहं मनोहराम् // अथ विद्योतिताशेषदिक्चक्रप्रतिभाखराः / तदाहं पुरतः साक्षात्पश्यामि बहुदेवताः // ततः ससम्भमोत्थानविहितातुलपूजनम् / ताभिमी श्लाघयन्तीभिरिदमुक्तं वचस्तदा // धन्योऽसि कृतकृत्योऽसि पूजनीयोऽसि मादृशाम् / यस्य भागवतो धर्मः स्थिरस्ते नरसत्तम // रोहिण्याद्या वयं विद्यास्तव पुण्येन चोदिताः / सर्वास्ते योग्यतां मत्वा ममायाताः स्वयंवराः // श्रावर्जिता गुणैस्तात तावकोनैः सुनिर्मलैः / अत्यन्तमनुरनास्ते सर्वाः सर्वात्मना वयम् // यस्य भागवतो धौर नमस्कारो हृदि स्थितः / सदा जाज्वल्यते लोके तस्य ते किमु दुर्लभम् // एताः पञ्चनमस्कारमन्त्रमाहात्म्ययन्त्रिताः / आगत्य स्वयमेवेह वयं किङ्करतां गताः / / For Private and Personal Use Only